top of page

भवभयहरण वन्दितचरण

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jul 3, 2023
  • 1 min read

भगवतः चरणौ कीदृशौ ? तौ भवभयं हरतः। अतः भगवान् भवभयहरणः अस्ति। तस्य चरणौ लोकैः वन्दितौ स्तः।

एतौ दिव्यचरणौ कलिकालस्य मलं दहतः। कलिमलं भस्मसात् कुरुतः एतौ परमपवित्रचरणौ।


अतः एव किल विभीषणः श्रीरामं प्रार्थितवान् एवम्।

न याचे राम राजेन्द्र सुखं विषयसम्भवम्। त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे॥ (अध्यात्मरामायणम्)

Comments


bottom of page