top of page

पिब रे रामरसम्



पिबरे रामरसं रसने
पिबरे रामरसम्।
दूरीकृतपातकसंसर्गं
पूरितनानाविधफलवर्गम्॥१॥ (पिबरे रामरसं ....)
जननमरणभयशोकविदूरं
सकलशास्त्रनिगमागमसारम्॥२॥ (पिबरे रामरसं ....)
परिपालितसरसिजगर्भाण्डं
परमपवित्रीकृतपाषाण्डम्॥३॥ (पिबरे रामरसं ....)
शुद्धपरमहंसाश्रितगीतं
शुकशौनककौशिकमुखपीतम्॥४॥ (पिबरे रामरसं ....)

अस्य मधुरस्य मङ्गलगानस्य रचयिता अस्ति श्रीसदाशिवब्रह्मेन्द्रयतिवर्यः।


एषः महामतिः यतिपुङ्गवः अद्वैतवेदान्तशिरोमणिः अस्ति। अनेन महाभागेन अनेकानि कीर्तनानि वेदान्ततत्त्वोपदेशग्रन्थाः च रचिताः सन्ति।


अस्य गानस्य अर्थः सरलः अस्ति। इदानीम् अवलोकयामः।


रे रसने (रसनेन्द्रिय) त्वं रामस्य रसं पिब।


कीदृशम् अस्ति रामरसम् ? अस्य महत्त्वं किम् ? अस्य महिमा कः ?

  • दूरीकृतपातकसंसर्गम् = पापसंसर्गात् दूरीकरोति।

  • पूरितनानाविधफलवर्गम् = अनेकपुण्यफलैः जीवनं पूरयति।

  • जननमरणभयशोकविदूरम् = सर्वविधशोकान् दूरीकरोति। जननमरणभयम् अपि अपसारयति। इत्युक्ते पुनर्जन्म पुनर्मरणं च न भवति यस्य रसनायां रामनाम विलसति।

  • सकलशास्त्रनिगमागमसारम् = सकालानां शास्त्राणाम् अखिलानां वेदानाम् अपि सारः केवलं रामतत्त्वम् अस्ति।

  • परिपालितसरसिजगर्भाण्डम् = संपूर्णब्रह्माण्डस्य हिरण्यगर्भस्य च रक्षणं रामतत्त्वम् एव करोति।

  • परमपवित्रीकृतपाषाण्डम् = सर्वजनान् पापिनः अपि पवित्रीकरोति।

  • शुद्धपरमहंसाश्रितगीतम् = परमहंसयतिवरेण्याः अपि अस्य एव गानं कुर्वन्ति।

  • शुकशौनककौशिकमुखपीतम् = एतत् रामरसं शुकमहर्षिणा शौनकमहर्षिणा कौशिकमर्षिणा च इत्यादिभिः अनेकैः महर्षिभिः पीतं वर्तते। अर्थात् सर्वे महर्षयः मुनयः परमभक्ताः च रामतत्त्वं सम्यक् जानन्ति स्तुवन्ति च।



k


Comments


bottom of page