अथ कदाचित् प्रियभक्तः महल्सापतिः सायिनाथस्य दिव्यत्वम् अनुभूय एतेन श्लोकेन कृतकृत्यतया प्रार्थितवान्।
पत्रिग्रामसमुद्भूतं द्वारकामयिवासिनम्। भक्ताभीष्टं प्रदं देवं सायिनाथं नमाम्यहम्॥
कस्मिन् प्रसङ्गे एषः श्लोकः महल्सापतिमुखात् निस्सृतः अभवत् ?
तत्र चावडि इत्यत्र बाबा निवसति स्म। स्थानस्य अभावात् बाबा काष्ठनिर्मितप्रेङ्खायाः उपरि शयनं करोति स्म। तस्य अधो भागे एव महल्सापतिः स्वपिति स्म। सा प्रेङ्खा तु केवलैः जीर्णधौतवस्त्रैः बद्धा आसीत्। अत एव अधो शयानः महल्सापतिः सततं त्रस्यति स्म। यदि तानि वस्त्राणि छिन्नानि भवेयुः तर्हि महाकायः सायिनाथः मम उपरि पतिष्यति इति भीतिः आसीत्।
भक्तस्य शङ्कां परिज्ञाय सायिनाथः स्वस्य दिव्यत्वं प्रकटीकृतवान्। ततश्च भक्तः निर्भीकः अभवत्। तत्किम् इति ज्ञातुम् अवश्यं स्वामिनः सकाशात् एव जानन्तु। कृपया एतां कथां स्वामिना एव शृण्वन्तु।
पाथरी, Pathri इति अस्य नामान्तराणि।
コメント