top of page

प्रदोषे दीपकः चन्द्रः

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Nov 4, 2023
  • 1 min read

Updated: Jun 5, 2024

प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः। त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः॥






विवरणम्

रात्रिवेलायां चन्द्रः लोकं प्रकाशयति। प्रभाते सूर्यः लोकं प्रकाशयति।

त्रिषु लोकेषु प्रभाकरः भवति धर्मः। कुलस्य दीपकः अस्ति सुपुत्रः।


गृहे विद्यमानः विद्युद्दीपः केवलं प्रकोष्ठं प्रकाशयति।

निशायां प्रकाशमानः चन्द्रः मन्दरूपेण सर्वत्र दीप्तिं प्रसारयति।

किन्तु दिवा विद्यमानः सूर्यः सर्वान् लोकान् भासयते।


गृहे प्रकाशमानः दीपः स्वार्थः।

चन्द्रः परार्थः।

सूर्यस्तु यथार्थः।


यथार्थः नाम सत्यम्। सूर्यः एव प्रत्यक्ष्यदैवम् अस्ति। अत एव पूर्वजाः सूर्योपासनं कुर्वन्ति स्म।


सम्प्रति लोको सत्पुत्राः आवश्यकाः। विद्यया वा धनेन वा सत्पुत्रत्वं न प्राप्यते। सत्पुत्रत्वं प्रवर्तनेन एव सिद्ध्यति।


सत्पुत्रः = Good Behaviour + Good Manners + Good Discipline + Good Devotion


सद्भक्तिः अस्ति चेत् अन्ये सद्गुणाः स्वयमेव अनुधावन्ति।


संपूर्णम् उपन्यासं श्रोतुं वा पठितुम् अत्र गच्छन्तु।


Recent Posts

See All
अष्टौ पुष्पाणि

बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

 
 
 

Kommentarer


bottom of page