top of page

दैवाधीनं जगत्सर्वम्।

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • May 21, 2023
  • 1 min read
दैवाधीनं जगत्सर्वं सत्याधीनं तु दैवतम्। तत्सत्यम् उत्तमाधीनम् उत्तमो परदेवता॥


अस्य श्लोकस्य सरलार्थः।


जगत् सर्वमपि दैवस्य आधीने तिष्ठति।

दैवं पुनः सत्यस्य आधीने भवति। अर्थात् सत्यम् अतिक्रम्य दैवमपि न करोति यत्किञ्चित्।

सत्यस्य अपि स्वातन्त्र्यं नास्ति। तत् सत्यम् उत्तमस्य आधीने भवति।

कः सः उत्तमः ?

सः उत्तमः तु परदेवता अस्ति।

परदेवता एव परं ब्रह्म। तत् परं ब्रह्म एव मानवरूपेण सत्यसायिबाबारूपेण अवतरणं कृत्वा लोकान् अनुगृहीतवत्।

Recent Posts

See All
अष्टौ पुष्पाणि

बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

 
 
 

Comentarios


bottom of page