top of page

घृष्टं घृष्टं पुनरपि

घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् छिन्नं छिन्नं पुनरपि पुन: स्वादुचैवेक्षुकाण्डम्। दग्धं दग्धं पुनरपि पुन: काञ्चनं कान्तवर्णम् प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम्॥

उत्तमानां स्वभावः कीदृशः ? तेषां स्वभावः चन्दनवत् भवति, इक्षुकाण्डवत् भवति काञ्चनवत् भवति। अधिकैः कष्टैः ते आधिक्येन विराजन्ते किन्तु न पराजयं प्राप्नुवन्ति। मरणमुखे स्थिते अपि एते उत्तमाः स्वात्मनः प्रकृतिं न त्यजन्ति। सदा सन्मार्गे एव सत्यसन्धाः प्रवर्तन्ते।







Source: Divine Discourse on 6th May, 2001 at Brindavan Ashram, Bangalore.



Recent Posts

See All

अष्टौ पुष्पाणि

बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

Commentaires


bottom of page