top of page

तुल्यनिन्दास्तुतिर्मौनी

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jan 21, 2024
  • 1 min read

बुद्धगया इति नामके क्षेत्रे बोधिवृक्षस्य मूले उपस्थितं बुद्धं केचन जनाः भर्त्सितवन्तः। ताः परुषोक्तीः निन्दोक्तीः च असह्यमानाः शिष्याः "स्वामिन्, आज्ञां देहि। एतान् सम्यक् शिक्षयामः। दण्डः दशगुणं भवेत् इति उच्यते। यावत् एतेषाम् अङ्गानि भग्नानि कृतानि तावत् एते शिक्षिताः न भवन्ति।"


बुद्धः "शिष्याः, मां गर्हमाणाः ते जनाः कियता आनन्देन सन्ति किल। तेषां वदनानि सन्तोषेण सन्तृप्त्या च उल्लसन्ति। यूयं मम आदरं कृत्वा सन्तुष्टाः ते तावत् मम अनादरं कृत्वा सन्तुष्टाः। अनेन नास्ति मे कोऽपि खेदः। कोपम् उद्वेगं च निगृह्य शान्ताः भवन्तु। इयमेव मे आशा।"


एवं प्रकारेण महात्मा बुद्धः ‘अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च’, ‘तुल्यनिन्दास्तुतिः मौनी’ चेति गीतावचनानि स्वस्य आचरणे प्रकटीकृतवान्।


 

मूलम् 66. "తుల్యనిందా స్తుతిర్మౌనీ" , Page 78, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి

Recent Posts

See All
मानवसङ्कल्पः दैवानुग्रहः च।

England इति देशे काचित् व्यक्तिः अनक्षरजनानां कृते पिहितपत्रस्य (envelope) उपरि सङ्केतं (address) लिखित्वा तेषां साहाय्यं करोति स्म। तेन...

 
 
 

Comments


bottom of page