top of page

वित्तं नाम किम् ?

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jun 16
  • 1 min read

अस्मिन् उपन्यासे स्वामी वित्तं नाम किम् इति प्रत्यपादयत्।



वित्तं इति पदस्य निरुक्तिं स्वामी अवदत् यत्


विद्यते लभ्यते इति वित्तम्।

अत्र विद्यते इति कर्मणि प्रयोगः। कस्य धातोः इति जिज्ञासायाम् विद् लाभे तुदादिः इति उत्तरं वक्तव्यम्। यदि अनेन पदेन एव अर्थः बोध्यते तर्हि कुतः स्वामी लभ्यते इत्यपि पदं अकथयत्। अयं साधु प्रश्नः अस्ति। यतोऽहि विद्यते इति रूपं धातुपाठानुसारं पञ्चधा सिध्यति। तानि रूपाणि च एतानि भवन्ति -


  • विद् ज्ञाने अदादिः कर्मणि लट्लकारः आत्मनेपदं प्रथमपुरुषः एकवचनम्।

  • विद् सत्तायाम् दिवादिः कर्तरि लट्लकारः आत्मनेपदं प्रथमपुरुषः एकवचनम्।

  • विद् सत्तायाम् दिवादिः भावे लट्लकारः आत्मनेपदं प्रथमपुरुषः एकवचनम्।

  • विद् लाभे तुदादिः कर्मणि लट्लकारः आत्मनेपदं प्रथमपुरुषः एकवचनम्।

  • विद् विचारणे रुधादिः कर्मणि लट्लकारः आत्मनेपदं प्रथमपुरुषः एकवचनम्।


अत्र संशीतिः मा भवतु इति स्वामिना लभ्यते इत्यपि उक्तम्। अनेन संशयः निवारितः भवति।


बलत्रितयम्

अस्मिन् उपन्यासे स्वामी अवदत् यत् प्रतिमानवं बलत्रितयं भवति यत् सर्वदा परोपकाराय प्रयोक्तव्यम्। कानि तानि त्रीणि बलानि / वित्तानि ?


  • धनबलम्

  • देहबलम्

  • विद्याबलम्


एतानि त्रीणि अपि मानवः निस्स्वार्थं समाजाय उपयुज्य लोकस्य कल्याणं कुर्यात् इति अत्र उपदेशः ग्राह्यः सर्वैः।


Comments


bottom of page