या चिन्ता भुवि पुत्रमित्रभरणव्यापारसम्भाषणे या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते। सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं का चिन्ता यमराजभीमसदनद्वारप्रयाणे प्रभो॥
अत्र स्वामिनः द्विव्यां मधुरां वाणीं शृण्वन्तु। स्वामी एतत् पद्यम् उक्त्वा तस्य अर्थम् अपि सम्यक् अस्मान् बोधयति।
सरलार्थः
पुत्रमित्रभरणार्थं व्यापारे सम्भाषणे च या चिन्ता मानवैः अस्मिन् भुवि भूलोके क्रियते, या चिन्ता धनलाभे धान्यलाभे यशसः लाभे सदा जायते, यदि सा एव चिन्ता भगवतः नन्दनन्दनस्य पादारविन्दे क्षणमपि स्थाप्यते, तर्हि अतीव भयङ्करस्य यमराजसदनस्य द्वाराणि अपि उद्घाटितानि भवन्ति।
किन्तु मानवाः सदा भोगविषये चिन्तयन्ति। तदपेक्षया यदि क्षणम् अपि मानवः भगवतः पादयोः मनः करोति तर्हि माहन् लाभः लभ्यते।
कति घण्टाः दिनानि मासान् संवत्सरान् लौकिकविषयेषु मानवः मनः स्थापयति। अनेन किं प्रयोजनम् ? किमपि नास्ति। एतदपेक्षया क्षणमात्रं भगवतः चरणयोः मनः लग्नं करोति चेत् अवश्यं फलस्य प्राप्तिः भवति।
पाठभेदः
क्वचित् अस्य श्लोकस्य पाठभेदः अपि ग्रन्थेषु दृश्यते।
या चिन्ता भुवि पुत्रपौत्रभरणव्यापारसम्भाषणे या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते। सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं का चिन्ता यमराजभीमसदनद्वारप्रयाणो प्रभो॥
Comments