जिह्वाग्रे वर्तते लक्ष्मीः जिह्वाग्रे मित्रबान्धवाः। जिह्वाग्रे बन्धनप्राप्तिः जिह्वाग्रे मरणं ध्रुवम्॥
अस्मिन् सुभाषिते स्वामी वचनस्य महत्त्वं बोधयति। सम्पत्प्राप्तिः मित्रप्राप्तिः बान्धवप्राप्तिः बन्धनप्राप्तिः मरणप्राप्तिः च सर्वमपि जिह्वाग्रे वर्तते। अर्थात् अस्माकं वचनानि आश्रित्य लोके वस्तुप्राप्तिः भवति।
यदा वयं मधुरवचांसि हितकरवचांसि वदामः तदा मित्राणि प्राप्नुमः। ततः च बान्धवाः अस्माभिः मेलितुम् उत्सुकाः भवन्ति। अस्मासु अन्ये विश्वासं कुर्वन्ति। तथा च धनप्राप्तिः अपि भवत्येव।
किन्तु यदि विपरीततया कठोरवचनानि वदामः तर्हि अवश्यं कष्टानि आपतन्ति। अन्ततो गत्वा मरणशिक्षणमपि स्यात्।
अतः वाक्शुद्धिः अत्यावश्यकी अस्ति।
किम् अहं सत्यं वदामि। किम् अहं हितकरं वदामि। इति आत्मपरिशीलनं कर्तव्यं सदा।
अस्य एव सुभाषितस्य पाठभेदद्वयम् उपलभ्यते। क्वचिदेव भेदः अस्ति। अर्थभेदः नास्ति। विवक्षा समाना एव।
जिह्वाग्रे वर्तते लक्ष्मीः जिह्वाग्रे मित्रबान्धवाः। जिह्वाग्रे बन्धनं प्राप्तं जिह्वाग्रे मरणं ध्रुवम्॥
जिह्वाग्रे वर्तते लक्ष्मीः जिह्वाग्रे मित्रबान्धवाः। जिह्वाग्रे बन्धसम्प्राप्तिः जिह्वाग्रे मरणं ध्रुवम्॥
अत्र अन्यत् सुभाषितमपि स्मृतिपथम् आयाति।
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं । प्रियं च नानृतं ब्रूयात् एष धर्मस्सनातनः ॥
सत्यं वदेत् प्रियं वदेत्। अप्रियं सत्यं न वदेत्। प्रियम् असत्यं न वदेत्। एषः धर्मः सनातनः अस्ति।
Commentaires