परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥
वृक्षाः किमर्थं फलानि उत्पादयन्ति ? ते स्वयं न भक्षयन्ति। नद्यः वहन्ति किमर्थम् ? स्वप्रयोजनम् अस्ति वा ?
गावः दुहन्ति दुग्धं न स्वार्थाय किन्तु वत्सेभ्यः अन्येभ्यः च।
एवमेव मानवस्य शरीरमपि अन्येषां हिताय भवतु। किन्तु शरीरिणः मानवाः एतत् सत्यं विस्मृत्य भोगार्थं स्वशीरस्य प्रयोगं कुर्वन्ति। एतद् समीचीनं नास्ति।
परेषाम् उपकारं कर्तुम् एव मानवेभ्यः शरीरं दत्तम् अस्ति। शरीरम् उपयुज्य परसेवा करणीया।
परोपकारः इति पदस्य गूढार्थः कः ?
अत्र पदत्रयं वर्तते। पर - उप - कार इति।
यत् कार्यम् अस्मान् परस्य समीपं नयति तदेव परोपकारः इति उच्यते।
परसेवया परसामीप्यं सिध्यति इति अत्र गुह्यसन्देशः वर्तते।
Hozzászólások