top of page

न मोक्षो नभसः पृष्ठे

मोक्षो नाम कः ? अयं मोक्षः कुत्र लभ्यते ? अयं मोक्षः कथं प्राप्तः भवति ?


अत्र भगवान् श्लोकरूपेण सरलतया मोक्षतत्त्वं बोधयति। सावधानं श्रुण्वन्तु।







अयम् उपन्यासः स्वामिना 1996 तमे संवत्सरे August मासे 16 तमे दिनाङ्के दत्तः आसीत्। पूर्णम् अनुग्रहसन्देशं श्रोतुम् अत्र नुदन्तु।




न मोक्षो नभसः पृष्ठे न पाताले न भूतले। अज्ञानहृदयग्रन्थेर्नाशे मोक्ष इति श्रुतिः॥

मोक्षः इति किञ्चन वस्तु नास्ति यत् आकाशात् परं विद्यते ततः च अस्माकं हस्तयोः पतति। अपि च मोक्षः वस्तु नास्ति यत् अन्यस्मिन् लोके, यथा पाताले अस्ति तस्मात् च उद्भवति। अपि च भूतले कुत्रचित् प्राप्यवस्तु नास्ति मोक्षः। भूमौ खनित्वा वा पर्वतारोहणं कृत्वा वा गुहासु प्रविश्य प्राप्तुं शक्यः नास्ति मोक्षः। तर्हि मोक्षः नाम कः ?


अज्ञानम् एव हृदयग्रन्थिः अस्ति। अज्ञानस्य नाशे एव मोक्षः इति वेदान्तडिण्डिमः।


मोहस्य क्षयः एव मोक्षः अस्ति। तर्हि मोहः नाम कः ?


अहं देहः इति मोहः। अहम् आत्मा इति मोहक्षयः।


अहं ब्रह्मास्मि इत्येव मोक्षः।


ज्ञानात् एव मोक्षः।


योगवासिष्ठे अपि सदृशः श्लोकः वर्तते।

न मोक्षो नभसः पृष्ठे न पाताले न भूतले । मोक्षो हि चेतो विमलं सम्यग्ज्ञानविबोधितम् ॥ ३५ ॥ (५.७३.३५)

Recent Posts

See All

अष्टौ पुष्पाणि

बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

Commenti


bottom of page