top of page

अस्थिरं जीवनं लोके

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Dec 24, 2022
  • 1 min read
अस्थिरं जीवनं लोके
अस्थिरं यौवनं धनम्।
अस्थिरं दारापुत्रादि
सत्यं कीर्तिः द्वयम् स्थिरम्॥

अस्य सुभाषितस्य कः अर्थः ?


अस्मिन् लोके सर्वमपि अस्थिरम् अस्ति। मानवस्य जीवनम् अस्थिरम् अस्ति। शाश्वतम् नास्ति। यस्य जन्म जातं तस्य मरणं ध्रुवम्।

धनं यौवनं च द्वयमपि अस्थिरम्। किन्तु अनेके मूढाः धनिकाः गर्वान्विताः भवन्ति। अपि युवकाः युवत्यः च। गच्छता कालेन अवश्यं सर्वे वृद्धाः भवेयुः। यः अद्य धनी सः भाविनि निर्धनी स्यात्।

तदर्थमेव भजगोविन्दे अपि उक्तं किल एवम् "मा कुरु धनजनयौवनगर्वं हरति निमेषात् कालः सर्वम्"।

येषु मानवः अत्यन्तम् अनुरक्तः भवति ते दाराः पुत्राः पुत्र्यः इत्यादयः बान्धवाः अपि अस्थिरभूताः सन्ति।

तर्हि किं वा स्थिरम् अस्मिन् लोके ?

पद्यस्य चतुर्थे चरणे स्वामी अस्य उत्तरं वदति।

केवलं पदार्थद्वयं स्थिरं भवति।

  • अ) सत्यम्

  • आ) कीर्तिः

एतदर्थम् एव जीवने प्रयत्नः करणीयः। अन्येषां कृते श्रमकरणं व्यर्थम् इति अवगन्तव्यम्। किं नाम सत्यं कीर्तिः च ?


सत्यम् = ईश्वरः, भगवान्, परब्रह्म, सत्यसायिनाथः, आत्मा, परमात्मा।

कीर्तिः = चरित्रम्, धर्मानुष्ठानम्, सत्प्रवर्तनम्, सुविख्यातिः, यशः।


अतः धर्ममार्गेण जीवनं कृत्वा सत्यस्य संप्राप्तिः साधनीया इति तात्पर्यम्।

Recent Posts

See All
अष्टौ पुष्पाणि

बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

 
 
 

Comentarios


bottom of page