सदयं हृदयं यस्य भाषितं सत्यभूषितम्।
देहं परहिते यस्य कलौ नास्ति परं सुखम्॥
अस्मिन् कलियुगे परसुखस्य प्राप्तिः कथं शक्यते ? अस्मिन् पद्ये स्वामी सरलतया अस्मान् बोधयति।
परसुखस्य प्राप्त्यर्थं केवलानि त्रीणि कार्याणि कर्तव्यानि।
हृदयं सदयं भवतु। हृदयं दयाभावेन संपूर्णं भवतु। अस्माकं व्यवहारः दयया सदा भवतु। यथा गीतायां श्रीकृष्णः वदति "अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहङ्कारः समदुःखसुखः क्षमी॥" (१२.१३)
भाषितं सत्यभूषितम्। सर्वदा सत्यम् एव वक्तव्यम्। असत्यं कदापि न वक्तव्यम्। यथा तैत्तिरीयोपनिषदि उक्तम् "सत्यं वद धर्मं चर"।
देहं परहिते निरतं भवतु। उक्तं हि "परोपकारार्थम् इदं शरीरम्"। स्वामी वदति "देहाभिमानः मास्तु देशाभिमानः भवतु। स्वार्थं त्यजतु परमार्थं प्राप्नोतु। मानवसेवा हि माधवसेवा अस्ति"। अतः देहस्य विनियोगः परेषां हिताय एव भवतु। स्वार्थाय मा भवतु।
यदि कश्चन मानवः एतेषां त्रयाणां पालनं करोति तर्हि तस्य कलौ (कलियुगे) अन्यत् परं सुखं नास्ति। सः सदा सुखी भवति।
सुखं प्राप्तुं मार्गः अतीव सरलः किल।
केचन अन्ये विषयाः
देहः देहं वा। उभयथा अपि साधु। इदम् उभयलिङ्गात्मकं पदम् अस्ति।
पाठभेदः। क्वचित् अस्य पद्यस्य पाठभेदः अपि श्रूयते। यथा
सदयं हृदयं यस्य भाषितं सत्यभूषितम् । कायः परहिते यस्य कलिस्तस्य करोति किम् ॥
Comments