
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने।
सरलसंस्कृतेन विवरणम्
श्री आदिशङ्कराचार्येण प्रणीतः आत्मबोधः इति कृतिरत्नः। तत्रत्यः श्लोकः अयम्।
आत्मा स्वयं ज्ञानस्वरूपः अस्ति। अतः आत्मानं ज्ञातुम् अन्यस्य बोधस्य ज्ञानस्य आवश्यकता न भवति। यथा कस्यचन दीपस्य दर्शनार्थं अन्यस्य दीपस्य आवश्यकता नास्ति।
Comments