top of page

आनन्दः ब्रह्म।

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Apr 16, 2023
  • 2 min read

Updated: Apr 20, 2023


तदा उषःकालः। गङ्गालहरीध्वनिः कर्णरसायनमिव श्रूयमाणः अस्ति। शीतलाः मन्दानिलाः शरीरं पुलकितं कुर्वन्ति। बालभास्करस्य रश्मयः पृथिव्याकाशौ स्वर्णमयौ कुर्वन्ति। तस्यां वेलायां भृगोः हृदयात् एका तीव्रा जिज्ञासा समुत्पन्ना अभवत्।


“अहो, को वा अस्याः सुन्दरसृष्टेः जनयिता ? तत् ब्रह्म किं स्यात् ? तस्य स्वरूपं कीदृशम् ?” इति विचारधाराम् अविरोद्धुम् अशक्नुवन् पितुः वरुणस्य समीपं सपदि अगच्छत्।


पितुः पादाभिवन्दनं कृत्वा “तात, ब्रह्म नाम किम् ? तस्य स्वरूपं किम् ? इति सन्देहान् समाधाय मम जिज्ञासाम् उपशाम्यतु“ इति पितरं प्रार्थितवान्।


ब्रह्मतत्त्वं पुत्रं बोधयितुं वरुणः समर्थः। किन्तु ब्रह्मतत्त्वं स्वप्रयत्नेनैव अनुभवतः ज्ञातव्यम् इति स्थितिः। तथा च गुरुस्थाने विद्यमानेन पित्रा सन्देहनिवृत्यर्थं मार्गोपायः दर्शयितव्यः न तु साक्षात् समाधानं वक्तव्यम्। नो चेत् स्वप्रयत्नः न भवति किल।


अतः वरुणः स्वपुत्रम् “ब्रह्मतत्त्वम् इदम् इत्थम् अस्ति इति वर्णयितुं न शक्यते। इदं तत्त्वं तीव्रतपः तप्त्वा विचारं कृत्वा च एव ज्ञातव्यम्। त्वं किञ्चित् कालं तपः कुरु” इति उक्त्वा आशीर्वादं कृत्वा सम्प्रेषितवान्।


पित्राज्ञानुगुणं तपःकर्तुम् अरण्यदेशे उचितस्थाने उपविश्य भृगुः तपः आरब्धवान्। ततश्च आत्मविचारं कृतवान्।

अथ कदाचित् विचारं कुर्वन् "अस्याः समग्रसृष्टेः मूलाधारभूतम् अन्नमेव खलु। एकैकस्मै प्राणिने अन्नम् आवश्यकम्। अयं देहः अन्नेनैव वर्धते। अत एव अन्नं ब्रह्म" इति अवगतवान्।


एवं निश्चयं कृत्वा पितृसमक्षं गतवान्। "तात, ब्रह्म किम् इति ज्ञातम्। अन्नमेव ब्रह्म अस्ति।"


शान्तस्वभावः वरुणः “नहि नहि, पुत्र। त्वं इतोऽपि विचारं कुरु। इतोऽपि किञ्चित्कालं तपः कुरु” इति पुत्रं भृगुम् आज्ञापितवान्।


तथा च भृगुः किञ्चित् कालं तपः तप्त्वा आत्मविचारं कृतवान्। स्वगतं चिन्तितवान् “अन्नस्य भक्षणेन देहः वर्धते। किन्तु अशितस्य अन्नस्य पचनार्थं काचित् शक्तिः अपेक्षिता किल। सा का ? सा एव प्राणशक्तिः। तर्हि प्राणशक्तिः एव ब्रह्म।” इति निश्चित्य पितरम् उपसर्प्य “तात, प्राणः एव ब्रह्म इत्यहं ज्ञातवान्।


वरुणः स्वपुत्रं समीपम् आनाय्य “पुत्र, नैव नैव। त्वया इतोऽपि तपः करणीयम्। विचारश्च कर्तव्यः” इति बोधितवान्।

भृगुः पुनः किञ्चित् कालं तपः कृतवान्। तथा एकदा तर्कितवान् “अन्नम् आवश्यकमेव। प्राणशक्तिः प्रधानमेव। किन्तु अन्नं खादनीयम् इति सङ्कल्पः कर्तव्यः किल। सङ्कल्पानां मूलस्थानं मन एव। अतः मन एव ब्रह्म” इति निर्णीय पितृसकाशं गतवान्।


“तात, मन एव ब्रह्म इति अवगतवान्” इति कथितवान्।


तदाकर्ण्य वरुणः “पुत्र, नैव नैव। इतोऽपि किञ्चित् कालं तपः कृत्वा आत्मविचारं कुरु” इति आदिष्टवान्।


भृगुः निराशाम् अकृत्वा सकृद् पुनः तपः आरब्धवान्। किञ्चित् कालानन्तरं विचारितवान् “मनसा कृतेन केवलेन सङ्कल्पेन किं प्रयोजनम्। अयं सङ्कल्पः समीचीनः उत न इति निर्णेतुं काचित् शक्तिः अस्ति चेदेव तस्य सङ्कल्पस्य

बलवत्त्वं सार्थकत्वं च” इति निश्चित्य “विज्ञानमेव ब्रह्म” इति ज्ञात्वा पितुः निकटं गतवान्।


“तात, ज्ञातवान्। विज्ञानं ब्रह्म अस्ति।” इति पितरम् उक्तवान्।


वरुणः परमशान्तस्वभावः सन् “नहि नहि, पुनः किञ्चित् कालं तपः कुरु। आत्मविचारं कुरु” इति आशीर्वादं कृत्वा पुत्रं सम्प्रेषितवान्।


अथ भृगुः किञ्चित्कालं तपः कुर्वन् विचारितवान् “अन्नं पुष्टिं ददाति। प्राणाः शक्तिं ददति। मनः इच्छां सृजति। बुद्धिश्च विवेचनं करोति। किन्तु एतेषां पर्यवसानं किञ्चित् भवेत्। तत्किमिति ज्ञातव्यम्”। ततः तपः अनुवर्तितवान्।


अथ एकदा तस्य काचित् अनिर्वचनीया अनुभूतिः जाता। सः कस्मिन्श्चित् आनन्दसागरे निमग्नः सन् प्लवमानः इव अनुभूतवान्। सः तस्याम् एव स्थितौ लीनः अभवत्।


वरुणस्तु सुतम् अन्विष्यन् गतवान्। कुत्रचित् प्रदेशे समाधिस्थितौ विद्यमानं स्वपुत्रम् अवलोकितवान्। स्वपुत्रः निश्चलानन्दं निर्मलानन्दम् अनुभवन् अस्ति इति ज्ञातवान्।


आनन्दः ब्रह्म। इतःपरं स्वपुत्रस्य मार्गदर्शनाय कोऽपि न आवश्यकः” इति मत्त्वा स्वमार्गेण वरुणः अग्रे अगच्छत्।


एवं प्राचीनकाले गुरुकुलेषु विद्यमानाः गुरुवः गुरुस्थाने विद्यमानाः पितरश्च स्वाध्यायम् आत्मविचारं मननं निदिध्यासनं च यथा शिष्याः कुर्युः तथा अवसरान् कल्पयन्ति स्म। सत्यान्वेषणार्थम् अयमेव मार्गोपायः।

मूलम् 2. ఆనందం బ్రహ్మ , Page 2, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి.


Comments


bottom of page