गुरूणां गुरुः।
अथ कदाचित् कश्चन शिष्यः स्वस्य गुरवे फलानि समर्पितवान्। गुरुश्च फलानि भागशः कृत्वा सर्वेभ्यो छात्रेभ्यो ददातु इति शिष्यम् आदिष्टवान्। वितरणे कस्मै आदौ फलं दातव्यम् इति शिष्यः सन्दिग्धवान्। तदवगत्य गुरुः "पुत्र, यः प्रियतमः तस्मै यच्छतु" इति कथितवान्।
गुरोः तद्वचनानि आकर्ण्य सपदि कांश्चन फलांशान् स्वमुखे कृतवान्। अस्य शिष्यस्य चेष्टाम् अवलोक्य अन्ये सहपाठिनः विमृश्य परस्परं चर्चयित्वा च उक्तवन्तः "इयं चेष्टा अनुचिता ननु। सः फलम् आदौ गुरवे दद्यात्। अनेन गुरोः अपमानम् एव अभवत्।"
किन्तु गुरुस्तु "पुत्राः, तेन समुचितमेव आचरितम्। तस्य चर्या आत्मविश्वासस्य निदर्शनम् अस्ति। तस्य आत्मस्वरूपे महती भक्तिः अस्ति इति तया चर्यया सुष्ठु ज्ञायते। को नाम ईश्वरः ? युष्माकम् अन्तः विद्यमानः आत्मा एव ईश्वरः। सः एव गुरूणां गुरुः।" इति सर्वान् शिष्यान् प्रबोधितवान्।
मूलम् 9. గురువులకు గురువు, Page 14, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి




Comments