अज्ञानम् अन्तर्धानम्।
कस्मिंश्चित् गृहे कश्चन प्रकोष्ठः। तत्र एकः बृहदाकारः मुकुरः (दर्पणः)। सः च बहिः नेतव्यः इति तत्रत्याः गृहस्थाः इष्टवन्तः। किन्तु बहिर्नेतुं दुष्करम्। यतोऽहि द्वारस्य परिमाणम् अपर्याप्तम् आसीत्।
अतः उपायार्थं सर्वे विचारं कर्तुम् उद्युक्ताः अभवन्। तेषु गृहस्थेषु केचन "भित्तयः भञ्जनीयाः", अपरे च "मुकुरः द्विधा करणीयः" इति स्वगतं मतम् उक्तवन्तः। एवं नैके उपायाः आविर्भूताः अभवन्।
तदभ्यन्तरे कश्चन बुद्धिमान् ग्रामस्थः तत्र आगतवान्। सर्वमपि विषयं कर्णे कृत्वा "वस्तुतः अयं मुकुरः गृहस्य अन्तः कथं गतः" इति प्रश्नं कृतवान्। अस्य उत्तरस्य ज्ञानेन अलं किल।
गृहस्थाः जानन्ति स्म यत् गृहस्य निर्माणवेलायाम् एव मुकुरः अन्तः स्थापितः आसीत्।
एवमेव इदं देहं गृहवत् अस्ति। अस्य देहस्य उत्पत्तिकाले एव अज्ञानम् अन्तर्भूतः अभवत्। किन्तु गृहवत् विद्यमानं देहम् अविचिन्त्य "अहं देहः" इति मोहेन जीवन्ति शरीरिणः मानवाः। "अहं देही" इति यदा ज्ञानं भवति तदा अज्ञानं स्वतः अन्तर्धानं भवति।
मूलम् 10. అజ్ఞానం - అంతర్ధానం, Page 15, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి




Comments