top of page

भगवतः चिरं नाम।

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Apr 21, 2023
  • 1 min read

Updated: Jul 21, 2023



पञ्चपाण्डवान् तेषां भार्यां च समीपस्थः सन् आपद्बान्धवः श्रीकृष्णः सदा रक्षति स्म। द्रौपदी श्रीकृष्णे अनन्यभक्तिं दृढविश्वासं च करोति स्म।


राजसभायां सर्वेषु ज्येष्ठेषु उपस्थितेषु अवलोकमानेषु च यदा दुर्योधनः तद्भ्रातरश्च द्रौपद्याः वस्त्राहरणं कुर्वन्ति स्म तदा द्रौपदी बलवन्तं भीमसेनं वा सव्यसाचिनम् अर्जुनं वा धर्मनिरतं युधिष्ठिरं वा भविष्यद्दर्शकं सहदेवं वा साहाय्यं न प्रार्थितवती।


“हे कृष्ण, हे माधव, द्वारकावासिन्, पाहि मां पाहि माम्” इति आर्तस्वरैः उच्चैः आक्रन्दनं कृतवती।

श्रीकृष्णस्तु एकमात्रेण आह्वानेन प्रत्यक्षीभूय अनुग्रहं करोति किल। तथा च अक्षयं भवतु इति अनुग्रहं कृत्वा द्रौपद्याः रक्षणं कृतवान्।


अथ कदाचित् कुरुक्षेत्रयुद्धानन्तरं यदा सर्वेऽपि संल्लापं कुर्वन्तः आसन् तदा द्रौपदी श्रीकृष्णम् उद्दिश्य “मम कश्चन सन्देहः अस्ति। तद्दिने कुरुसभायां पाहि माम् इति प्रार्थनाम् अकरवम्। किन्तु सपदि त्वं न आगतवान्। त्वया कुतः विलम्बः कृतः।”


मन्दहासं कृत्वा सरलस्वभावेन निर्व्याजं “अहं किं वा करवाणि। हृदयवासिन् इति अकथयित्वा हे द्वारकावासिन् इति माम् आहूतवती। अत एव मया आदौ द्वारकां गत्वा ततः परं तत्र आगन्तव्यम् इति आपतितम्। एतावता अपि मम शाश्वतं चिरं नाम भवती न विदितवती किम्” इति उक्तवान्।


किम् तत् भगवतः शाश्वतं नाम ?


“ईश्वरः सर्वभूतेषु हृद्देशेऽर्जुन तिष्ठति।” ईश्वरः सर्वभूतानां हृदयम् अधितिष्ठति।

मूलम् 3. భగవంతునిచిరునామ! , Page 4, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి.

भगवतः हृदयनिवासी इत्येव शाश्वतं चिरं नाम। अन्यानि सर्वाणि नामानि प्रासङ्गिकानि स्युः। सः भगवान् मम अन्तः एव हृदयनिवासी भूत्वा निवसति। न तु अन्यत्र दूरदेशे कुत्रचित्। इति अनया कथया ज्ञेयं तात्पर्यम्।


Comments


bottom of page