top of page

जिह्वे रसज्ञे

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jul 16, 2023
  • 1 min read

गोविन्ददामोदरस्तोत्रम् इति श्रीबिल्वमङ्गलाचार्येण विरचितम् अस्ति। अस्मात् स्तोत्रात् स्वामी एकं मनोहरं श्लोकं वदति। श्रुत्वा आनन्दम् अनुभवन्तु।







Source: Swami's discourse on 22 August, 2000 in Prashanti Nilayam.


जिह्वे रसज्ञे मधुर-प्रिया त्वं सत्यं हितं त्वां परमं वदामि । आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ॥(गोविन्ददामोदरस्तोत्रम् ४०) https://sanskritdocuments.org/doc_vishhnu/govind.html

हे जिह्वे, हे रसज्ञे, त्वं मधुरप्रिया असि किल। त्वं मधुरम् एव अधिकम् इच्छसि किल। भवतु तथैव। अहं त्वाम् अतीवहितं परमं सत्यं वदामि। श्रुणु।

त्वं गोविन्द, माधव, दामोदर इति मधुराक्षराणि आवर्णयेथाः।


हे जिह्वे, त्वं सदा गोविन्दस्य नाम जप, दामोदर इति वद, माधव इति कथय। एतदपेक्षया अस्मिन् लोके मधुरतमं तत्त्वं नास्ति। अनेन एव तव अतीवहितं भवति। एतद् सत्यम् अस्ति।



Comments


bottom of page