top of page

भक्तिरेव परमार्थदायिनी

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jul 23, 2023
  • 1 min read
भक्तिरेव परमार्थदायिनी भक्तिरेव भवरोगनाशिनी। भक्तिरेव परवेदनप्रदा भक्तिरेव परमोक्षकारिणी॥ ३८ (षड्विंशोऽध्यायः, शिवभक्तिविचारः, चतुर्थं यज्ञवैभवखण्डं, सूतसंहिता, स्कन्दपुराणम्)





सूतसंहिता नाम का ?

स्कन्दपुराणे षड् संहिताः सन्ति। सनत्कुमारसंहिता, सूतसंहिता, शङ्करीसंहिता, वैष्णवीसंहिता, ब्राह्मीसंहिता सौरसंहिता च। एतासु सूतसंहिता अन्यतमा।


सूतसंहितायां कानि खाण्डानि सन्ति ?

अत्र शिवमाहात्म्यखण्डं, ज्ञानयोगखण्डं, मुक्तिखण्डं, यज्ञवैभवखण्डं च। पुनश्च यज्ञवैभवखण्डे ब्रह्मगीता सूतगीता च इति भागद्वयम् अतीवप्रसिद्धम् अस्ति।


यज्ञवैभवखण्डे के विषयाः परामृष्टाः ?

यज्ञवैभवखण्डे पुनः पूर्वभागः उत्तरभागः च इति भागद्वयं वर्तते।

पूर्वभागे - सर्ववेदार्थप्रश्ननिरूपणं, परापरवेदार्थविचारः, गायत्रीविवरणं, हंसविद्याविवरणं, मुक्तिसाधनकथनं, शिवभक्तिविचारः, परतत्त्वनामविचारः, प्रायश्चित्तकथनं, मृत्युसूचकविवरणं चेत्यादयः विषयाः प्रतिपादिताः सन्ति।

उत्तरभागे - ब्रह्मगीता सूतगीता च।


सूतसंहितायां कति श्लोकाः सन्ति ?

6000+ षड्सहस्राधिकाः श्लोकाः सन्ति।


अस्तु तावत्। अधुना स्वामिनः उपन्यासं शृण्मः।







परमार्थस्य ज्ञानं प्राप्तुं भक्तिः एव मूलकारणम् अस्ति। जननमरणादीनां रोगानाम् औषदं भक्तिः एव। समस्ततत्त्वज्ञानं प्राप्तुं भक्तिः एव मूलकारणम् अस्ति। परमं पवित्रं गम्यं मोक्षस्थानं प्राप्तुमपि भक्तिः एव मूलकारणम् अस्ति। एतादृशीं भक्तिं निमित्तीकृत्य बहवः जनाः तद्फलेप्सवः दैवानुग्रहं प्राप्तुकामाः सदा प्रयत्नरताः सन्ति। किन्तु भक्तिः नाम किम् ?


संपूर्णम् उपन्यासं श्रोतुम् अत्र गच्छन्तु। (19 July, 1996 in Prashanthi Nilayam)




सूतसंहितायाम् इमं श्लोकं द्रष्टुं पठितुं च अत्र गच्छन्तु।



コメント


bottom of page