top of page

मानवसङ्कल्पः दैवानुग्रहः च।

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jun 30, 2023
  • 1 min read

England इति देशे काचित् व्यक्तिः अनक्षरजनानां कृते पिहितपत्रस्य (envelope) उपरि सङ्केतं (address) लिखित्वा तेषां साहाय्यं करोति स्म। तेन यावत् धनं ते जनाः ददति स्म तावदेव स्वीकरोति स्म। अयमेव तस्य उदरपोषणार्थम् जीवितोपायः आसीत्। पिहितपत्रस्य उपरि सङ्केतं लिखन् “भगवान् भवन्तम् अनुगृह्णातु” इति वदति स्म। कदाचित् यदि कोऽपि आगत्य साहाय्यं न याचते स्म तर्हि तानि दिनानि सः अकिञ्चनः सन् जीवति स्म।


अपि च बालबालिकानां कृते शिक्षणसहायं (tuition) करोति स्म। तदा अपि छात्रान् पाठयन् “सर्वदा भगवति विश्वासं कुरुत” इति तान् बोधयति स्म। तस्याः व्यक्तेः भगवति अपारविश्वासः आसीत्। जातु भगवान् तेन महत् सेवाकार्यं कारयिष्यति इति तस्य जनस्य दृढप्रत्ययः आसीत्।


किञ्चित् कालानन्तरं यथाविश्वासं सः Britain इति देशस्य प्रधानमन्त्री बभूव। सा व्यक्तिः एव Ramsay MacDonald अस्ति। या व्यक्तिः पिहितपत्राणाम् उपरि सङ्केतान् लिखन् जीवति स्म तद्कथम् उत्तरत्र कस्यचन देशस्य प्रधानमन्त्री अभवत् ? कारणं किम् ?


सत्सङ्कल्पः दृढविश्वासः च।

सत्सङ्कल्पेन सह दैवानुग्रहः मिलितः अभवत्।


यावान् विश्वासः तावान् फलितांशः इति लोकोक्तिः किल।

मूलम् 43. మానవసంకల్పం-దైవానుగ్రహం, Page 50, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి.

Commentaires


bottom of page