top of page

लोभं हित्वा सुखी भवति।

Updated: Jul 23, 2023



एतत् वाक्यं युधिष्ठिरेण उक्तम् उत्तरं यक्षस्य प्रश्नस्य कृते। महाभारते आरण्यकपर्वे वर्तते। (https://sa.wikisource.org/s/23g)


यक्षः उवाच

किं नु हित्वा प्रियो भवति किंनु हित्वा न शोचति।

किंनु हित्वाऽर्थवान्भवति किंनु हित्वा सुखी भवेत् ॥ 3-314-79


युधिष्ठिर उवाच।

मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति।

कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ 3-314-80


यक्षस्य प्रश्नः - हिं हित्वा मानवः प्रियः भवति ?

युधिष्ठिरस्य उत्तरम् - मानं हित्वा मानवः प्रियः भवति।


यक्षस्य प्रश्नः - किं हित्वा मानवः न शोचति ?

युधिष्ठिरस्य उत्तरम् - क्रोधं हित्वा मानवः न शोचति।


यक्षस्य प्रश्नः - किं हित्वा मानवः अर्थवान् भवति ?

युधिष्ठिरस्य उत्तरम् - कामं हित्वा मानवः अर्थवान् भवति।


यक्षस्य प्रश्नः - किं हित्वा मानवः सुखी भवति ?

युधिष्ठिरस्य उत्तरम् - लोभं हित्वा मानवः सुखी भवति।

Comments


bottom of page