top of page

न मे कर्तव्यम् अस्ति किञ्चन।

  • Apr 19, 2023
  • 1 min read
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥ ३.२२॥ (भगवद्गीता)

श्लोकस्य पदच्छेदः - न मे (मम) पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन। न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि।

श्लोकस्य अन्वयः - हे पार्थ, त्रिषु लोकेषु न मे किञ्चन कर्तव्यम् अस्ति। (कस्मात् ?) न अनवाप्तम् अवाप्तव्यम्। (तथापि) च (अहं) कर्मणि वर्ते एव।


अस्मिन् ध्वनिमुद्रणे स्वामी एतं श्लोकं उक्त्वा तस्य अर्थम् अपि बोधयति। कृपया शृण्वन्तु।


एषः उपन्यासः स्वामिना Dussera पर्वदिने १९९८ तमे वर्षे ९ तमे मासे २९ तमे दिनाङ्के कृतः।


अत्र स्वामी किं वदति ?

स्वामिना किमपि कर्तव्यं नास्ति। त्रिषु लोकेषु अपि स्वामिनः कर्तव्यं नास्ति। स्वार्थाय स्वामी किमपि न करोति। स्वामिनि आपादमस्तकं स्वार्थस्य लेशोऽपि नास्ति। अत्र भवन्तः विश्वासं कुर्वन्ति वा न। स्वार्थत्वं किञ्चिदपि नास्ति स्वामिनः। परार्थाय एव स्वामी कार्यं करोति। स्वामी केवलं ददाति कदापि न स्वीकरोति कस्मैचिदपि। किन्तु एकमेव वस्तु स्वामी स्वीकरोति। तत् किम्? तत् निर्मलप्रेम अस्ति। यस्य हृदये निर्मलप्रेम वर्तते तस्मै स्वामी स्वप्राणम् अपि दातुं सिद्धः भवति।


संपूर्णम् उपन्यासं श्रोतुं अत्र नुदन्तु।




Comments


bottom of page