श्वेतकेतुः उद्दालकमहर्षेः सुपुत्रः अस्ति। एकदा महर्षिः स्वपुत्रं अपृच्छत् " पुत्र, एतावन्ति दिनानि परमात्मतत्त्वं ब्रह्म च इत्यादीन् विषयान् अपठः किल ? सोऽयं भगवान् कुत्रास्ति ?"
ततः तयोः संभाषणम् एवम् अभवत्।
श्वेतकेतुः - भगवान् सर्वान्तर्यामी इति अस्मद्गुरवः बोधितवन्तः।
उद्दालकः - कुमार, सर्वव्यापकत्वं किम् इति त्वं जानासि वा ?
श्वेतकेतुः - न जाने।
उद्दालकः - पुत्र, अन्तः गत्वा एकस्मिन् पात्रे जलं किञ्चित् लवणं च आनय।
पित्रा यथानिर्दिष्टं श्वेतकेतुः तथा अकरोत्।
उद्दालकः - पुत्र, जलेन साकं लवणं सम्यक् मिश्रय। तथा च जलम् आस्वादस्व।
श्वेतकेतुः - जलं लवणमयम् अस्ति।
उद्दालकः - कुमार, पात्रे हस्तं निक्षिप्य लवणः प्राप्यते वा इति परीक्षस्व।
तथैव श्वेतकेतुः अयतत।
श्वेतकेतुः - पितः, लवणं तु जले लीनम् अस्ति। अतः पृथक्तया न प्राप्यते।
उद्दालकः - त्वं कथं जानासि ?
श्वेतकेतुः - पात्रस्थं जलम् आस्वादितवान् अतः जानामि।
उद्दालकः - साधु। अनुभवात् त्वं ज्ञातवान् जले लवणं लीनम् अस्ति इति। तथैव भगवान् अपि अस्यां सृष्टौ लीनः वर्तते। अस्य तत्त्वस्य अनुभवात्मकं ज्ञानं प्राप्तव्यम्। इत:परम् एतदर्थम् एव त्वया प्रयासः कर्तव्यः।
मूलम् 1. భగవంతుని - సర్వ వ్యాపకత్వము, Page 1, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి.
Comentários