top of page

सर्वे वेदविदः शूराः

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jul 9, 2023
  • 1 min read

वाल्मीकिरामायणात् स्वामी अत्र श्लोकम् उक्त्वा उपन्यासम् आरभते।






अयम् उपन्यासः 22, November, 2021 दत्तः अस्ति। सम्पूर्णम् उपन्यासं श्रोतुम् अत्र नुदन्तु।




सर्वे वेदविदश्शूरास्सर्वे लोकहिते रता:।।1.18.24।। सर्वे ज्ञानोपसम्पन्नास्सर्वे समुदिता गुणै:। (वाल्मीकिरामायणे बालकाण्डे अष्टादशे सर्गे)

पदच्छेदः - सर्वे वेदविदः शूराः, सर्वे लोकहिते रताः, सर्वे ज्ञानोपसम्पन्नाः, सर्वे समुदिताः गुणैः।


रामायणे प्रसङ्गः - अस्मिन् श्लोके दशरथस्य चत्वारः पुत्राः वर्णिताः सन्ति। ते चत्वारः रामभरतलक्ष्मणशतृघ्नाः कीदृशाः आसन् ? ते कथं प्रवृद्धाः अभवन् ?


तात्पर्यार्थः

ते चत्वारः सर्ववेदान् अधीतवन्तः। अधीत्य किं कृतवन्तः ? सदा लोकहिते निरताः अभवन्। प्रजासेवां कुर्वन्तः आसन्। तेषां वेदज्ञानं लोकहिताय अभवत् न तु स्वार्थाय।

केवलं वेदविषयसङ्ग्रहणं न कृतवन्तः। किन्तु विषयान् अधीत्य सम्यक् अवगत्य ज्ञानवन्तः अभवन्। तदनु सद्गुणवन्तः अभवन्।


अध्ययनात् विषयसङ्ग्रहः। तस्मात् आत्मविचारेण ज्ञानप्राप्तिः। तस्मात् सद्गुणवर्धनं सच्छीलसम्पादनम्। तस्मात् सदा लोकसेवा।


एवं ज्ञानं लोकहिताय भवतु।


मूलश्लोकस्य पठनम्।

साक्षात् रामायणे एतं श्लोकं पठितुम् अत्र नुदन्तु।


Commentaires


bottom of page