पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्यशः। यावत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः॥ (चाणक्यनीतिः)
पदच्छेदः - पुनः वित्तम् पुनः मित्रम् पुनः भार्या पुनः यशः। यावत् सर्वम् पुनः लभ्यम् न शरीरं पुनः पुनः।
अन्वयः - पुनः वित्तं (लभ्यते)। पुनः मित्रं (लभ्यते)। पुनः भार्या (लभ्यते)। पुनः यशः (प्राप्यते)। (किन्तु) पुनः शरीरं न लभ्येत।
अत्र स्वामी चाणक्यनीतितः एकं श्लोकं वदति। अस्मिन् श्लोके शरीरस्य महत्त्वं वर्णितम् अस्ति।
लुप्तं धनं पुनः प्राप्तुं शक्यम्। मित्रं नष्टं चेदपि अन्येन सह मित्रत्वं सम्पादयितुं शक्यते। भार्या मृता चेत् पुनः विवाहं कृत्वा भार्या प्राप्यते। भूमिः अपहृता चेदपि सा पुनः प्राप्यते। एतानि नष्टानि सर्वाणि पुनः प्राप्यन्ते प्रयत्नेन।
किन्तु यदि शरीरं नष्टं तत् पुनः न प्राप्यते। सर्वसाधनानां कृते सर्वप्रयत्नानां कृते सर्वजयानां कृते अपि शरीरम् एव प्रधानम् इति मानवैः मन्तव्यम्।
मानवशरीरम् अतीव उत्तमम् अस्ति। अनन्तजीवेषु असङ्ख्याकेषु जीवराशिषु मानवत्त्वम् उत्कृष्टं सौजन्यं सौशील्यम् अस्ति। एतादृशं मानवशरीरं धर्तुं परमभाग्यं वर्तते।
संपूर्णम् उपन्यासं श्रोतुम् अत्र नुदतु।
अवधेयः विषयः - चाणक्यनीतौ पाठभेदः दृश्यते। तद् यथा -
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही। एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः॥ (चाणक्यनीतिः)
Yorumlar