सत्यं माता पिता ज्ञानम्
- Sai Sanskrit
- Jul 16, 2023
- 1 min read
अस्मिन् लोके माता का ? पिता कः ? भ्राता कः ? सखा कः ? पत्नी का ? पुत्रः कः ?
अयम् उपन्यासः स्वामिना 1996 तमे संवत्सरे August मासे 16 तमे दिनाङ्के दत्तः आसीत्। पूर्णम् अनुग्रहसन्देशं श्रोतुम् अत्र नुदन्तु।
लोके कः दानवः कः मानवः इति ज्ञातुं सुलभं नास्ति। कः सज्जनः कः दुर्जनः इत्यपि ज्ञातुं दुष्करमेव। आकारेण मानवाः भवन्ति किन्तु व्यवहारेण दानवाः सन्ति। कः मनुष्यः कः पशुः ?
पशुत्वात् मानवत्वं मानवत्वात् दिव्यत्वम् इति भवेत् जीवनयात्रा। किन्तु एतदपेक्षया विपरीततया भवति मानवानां जीवनम्। मानवत्वात् पशुत्वं गच्छति मानवानां चरित्रम्। एतद् समीचीनं नास्ति।
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्तिः पत्नी क्षमा पुत्रः षडेते जनबान्धवाः॥ (द्वादशः अध्यायः एकादशः श्लोकः, चाणक्यनीतिः।) https://sa.wikisource.org/s/9pn
सत्यम् एव माता। ज्ञानम् एव पिता। धर्मः एव भ्राता। दया एव सखा। शान्तिः एव पत्नी। क्षमा एव पुत्रः। एते षड् मानवस्य निजबान्धवाः सन्ति। एते एव मानवान् सदा रक्षन्ति। अन्ये सर्वे बान्धवाः न सन्ति। अतः एतेषां पालनं सदा कर्तव्यम्।
स्वामी चाणक्यनीतितः श्लोकम् उक्त्वा अस्मान् निजतत्त्वं बोधयति। श्रुत्वा जीवनरहस्यम् अवगच्छन्तु।
Comments