top of page

तपः नाम किम् ?

  • Apr 8, 2023
  • 1 min read

अत्र स्वामिनः सूतसंहिता इति ग्रन्थतः तपः इति शब्दस्य अर्थम् उदाहृतवन्तः। सूतसंहिता स्कन्दपुराणे अन्तर्भवति इति ज्ञायते।


कोऽहं मुक्तिः कथं केन संसारं प्रतिपन्नवान्। इत्यालोचनमर्थज्ञास्तपः संशन्ति पण्डिताः॥ (सूतसंहितायाम् परमेश्वरेण उक्तम्)

श्लोकस्य पदच्छेदः - कः अहं मुक्तिः कथं केन संसारं प्रतिपन्नवान्। इति आलोचनम् अर्थज्ञाः तपः संशन्ति पण्डिताः।

श्लोकस्य अन्वयः - अहं कः, मुक्तिः कथं, केन संसारं प्रतिपन्नवान् इति आलोचनम् अर्थज्ञाः पण्डिताः तपः संशन्ति।


अस्मिन् श्लोके तपः इत्यस्य अर्थः उक्तः। तपः नाम आलोचनम्। कस्य आलोचनम् ?

  • अहं कः ?

  • मुक्तिः कथं भवति ?

  • केन (कस्मात्) संसारं प्रतिपन्नवान् ?

इत्येतेषां प्रश्नानां विचारः एव तपः उच्यते।


इमम् अंशं स्वामिनः सत्यसायिवाहिनी इत्यस्मिन् ग्रन्थे प्रतिपादितवन्तः। तं भागम् अत्र अधः स्थापयामि।


సత్యసాయి వాహిని, 14. నేనెవరు?


"కోహం ? ముక్తిః కథం? కేన సంసార ప్రతిపన్నవాన్? ఇత్యాలోచనమర్థజ్ఞస్తపశ్శంతి పండితాః"


నేనెవరు? ఈ కర్తృత్వ మేమిటి? ఈ భోక్తృత్వ మెందులకు? జనన మరణాదులెందులకు కలుగుచున్నవి? నాకీ సంసారమెట్లు ప్రాప్తించినది? ఇందుండి ముక్తి కలదా ?


ఇత్యాది విషయ విచారణయే మహాతపస్సని ఋషులు చెప్పెడివారు. ఇత్యాది విచారణ ప్రయత్నమను తపస్సు జీవునియొక్క వివేక ఫలితము. ఇది మొట్టమొదటి మెట్టు.


Source: Sri Sathya Sai Vahini, Chapter 14, నే నెవరు ?

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
bottom of page