top of page

जगदीशः जितः चेत् जगदपि जितम्।

कश्चन राजा महाप्रदर्शनस्य (exhibition) आयोजनं कृतवान्। प्रदर्शने यानि वस्तूनि प्रजाः इच्छन्ति तानि ताः यथेच्छं ग्रहीतुं शक्नुवन्ति इत्येतद् एव अस्य प्रदर्शनस्य वैशिष्ट्यम्। प्रजाः तु अनेकशः आगत्य इष्टानि वस्तूनि स्वीकृत्य गच्छन्ति स्म।


तासु आगतासु एका बाला प्रदर्शने सर्वमपि सम्यक् अवलोक्य रिक्तहस्ता सती निर्गच्छति स्म। सा राज्ञः दृष्टिगोचरा जाता। तां बालाम् आहूय “बाले, अस्मिन् महति प्रदर्शने बहूनि चित्राणि विचित्राणि च वस्तूनि सन्ति। तथापि किमपि न रोचते वा ?” इति अपृच्छत् राजा।


“महाराज, सर्वाणि वस्तूनि समीचीनानि सन्ति। अपि च अहम् आशारहिता नास्मि। किन्तु एकं वस्तु वाञ्छामि चेत् आशा तावन्मात्रेण न तृप्ता भवति किल। ततश्च आशा वर्धते एव। आशायाः दासी अभूत्वा यदि अहम् आशां जयामि तर्हि आशा एव मम वशम् आगच्छति।” इति बाला उत्तरं कथितवती।


तस्याः बालायाः वचनानि श्रुत्वा सन्तुष्टः सन् राजा “बाले, अस्मिन् प्रदर्शने यद् किमपि वस्तु इच्छ तद् तुभ्यम् अवश्यं ददामि।”

“अवश्यं ददासि वा।” इति बाला राजानम् अपृच्छत्।

“निश्चयेन ददामि” इति राजा प्रतिज्ञाम् अकरोत्।

“अहं तु त्वाम् एव इच्छामि।” इति बाला अब्रवीत्।


दत्तं वचनं सत्यं कर्तुं राजा तां बालां स्वस्य राज्ञीं कृतवान्। ततश्च तस्य सर्वस्यापि प्रदर्शनस्य सा एव अधिकारिणी सञ्जाता।


अस्याः कथायाः तत्पर्यार्थः कः ?

एषा अद्भुता सृष्टिः प्रदर्शनवत् अस्ति। राजा एव भगवान्। अस्मिन् सृष्टिभूते जगति ये यद् वस्तु इच्छन्ति ते तद् वस्तु स्वीकुर्वन्तः सन्ति। किन्तु एतेषु केचन वैराग्यवन्तः बालावत् “एतानि वस्तूनि मास्तु। प्रदर्शनस्य स्वामी एव इष्यते।“ इति वाञ्छन्ति।


यदा लोकेशः स्वाधीने कृतः तदा लोकोऽपि वशीभूतः भवति।

 

मूलम् 5. లోకేశుని వశం చేసుకుంటే లోకమే వశమవుతుంది, Page 8, చిన్నకథ (ద్వితీయభాగం), భగవాన్ శ్రీ సత్యసాయిబాబావారి దివ్యొపన్యాసములనుండి స్వీకరింపబడినవి.

 
आशाया ये दासास्ते दासाः सर्वलोकस्य। आशा येषां दासी तेषां दासायते लोकः ॥ (सुभाषितरत्नभाण्डागारम्)

सुभाषितस्य सरलार्थः - ये आशायाः दासाः भवन्ति ते सर्वलोकस्य दासाः भवन्ति। किन्तु येषाम् आशा दासी भवति तेषां लोकः एव दासः इव आचरति।

Comments


bottom of page