top of page

अन्नं वस्त्रं च किमर्थम् ?

  • Feb 28, 2023
  • 1 min read
"భిక్షాన్నం దేహరక్షార్థం , వస్త్రం శీతనివారణం"
(ఉత్తర గీత).
దేహ పోషణార్థము, దేహము నిలుపుదలకు మాత్రము అన్నపానాదులు అవసరము. చలిబాధ నివారణార్థము వస్త్రము.
అయితే మానవుడు ఈ రెండు విధములైన చాపల్యములందే మునిగి తేలుచుండిన, వాని రాక దేనికొఱకు? వాడు చేయు పవిత్రత దేనికి! ఆ విషయము మరచియుందురు

(Prema Vahini, Telugu, Prabodha 10, Page 56; ISBN 978-81-7208-755-5)


अत्र स्वामिवर्येण उत्तरगीतातः श्लोकभागः उद्धृतः अस्ति।


उत्तरगीता इति किम् ?

गीतात्रयम् इति प्रसिद्धं यत्र उपदेशकः श्रीकृष्णः शिष्यश्च अर्जुनः वर्तते। तेषु इयम् अन्यतमा वर्तते।


उपरिष्टात् तेलुगुभाषया लिखितस्य भागस्य कः अर्थः ?

अयं भागः स्वामिना विरचिते प्रेमवाहिनी इत्याख्ये ग्रन्थे दशमे प्रबोधे वर्तते। तत्रत्यः मुख्यविषयः 'सत्सङ्कल्पः एव सान्निध्यार्थं मार्गोपायः मानवानाम्' इति।


तत्र पुनः मायया कल्पितस्य प्रपञ्चस्य किं प्रयोजनम् अस्ति इति विमर्शे क्रियमाणे शरीरपोषणार्थम् एव न तु शरीरलालनार्थम् इति प्रतिपादितम् अस्ति।


अस्मिन् प्रसङ्गे इयं पङ्क्तिः उत्तरगीता तः स्मृता अस्ति।


"भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम्।"

( उत्तरगीतायां, तृतीयाध्याये, षोडशः श्लोकः)


मूलश्लोकः एवं वर्तते।


भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् ।

अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ।

समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते ॥ १६॥


योगी कस्यचिदपि चिन्तनं न कुर्यात्। तथापि यदि चिन्त्यम् अपेक्षते तर्हि देहरक्षार्थं यावत् भिक्षान्नं प्राप्यम् अपि यावत् शीतनिवारणार्थं वस्त्रम् अपेक्षितं तावन्मात्रम् एव चिन्तनं कुर्यात्। योगिनः कृते अश्मा वा हिरण्यं वा शाकं वा शाल्योदनं वा सर्वं समानं भवतु। कुत्रचित् अधिका प्रीतिः अन्यस्मिन् वस्तुनि अल्पा प्रीतिः इति तारतम्यं न भवेत्। अतः किल गीतायाम् उक्तं समत्वं योग उच्यते इति।



Comments


bottom of page