स्वामिनः उपन्यासः - बेङ्गलूरुनगरे १९९१ तमे संवत्सरे May मासे २९ तमे दिनाङ्के।
अस्मात् दिव्योपन्यासात् एकमेव वाक्यम् उद्धृतम् अत्र। अस्मिन् वाक्ये स्वामी आत्मनः पर्यायपदानि वदति।
कृपया शृणुत।
एतेषां पदानाम् अर्थं अवगच्छामः।
सत्यम् - त्रिषु कालेषु अपि यत् वर्तते तदेव सत्यम्।
ज्ञानम् - ज्ञानानां ज्ञानम् उत्तमम् एव ज्ञानम्। किम् एतत् ज्ञानम् ? अहं ब्रह्मास्मि इत्येव तत् ज्ञानम्।
अनन्तम् - यस्य अन्तः नास्ति तद् अनन्तम्। कालेन न परिच्छिन्नम् अपि देशेन अपरिच्छिन्नम् अस्ति।
ब्रह्म - बृंहति वर्धते इति ब्रह्म।
अक्षरम् - न क्षरति (क्षीणं न भवति) अश्नुते (सर्वत्र व्याप्तिं करोति) च इति अक्षरम्। अत्र अस्माभिः ब्रह्मसूत्रस्य शाङ्करभाष्यम् अवलोकनीयम्।
तस्मात् न क्षरति, अश्नुते च इति नित्यत्वव्यापित्वाभ्याम् अक्षरं परमेव ब्रह्म इति ज्ञेयम्। (ब्रह्मसूत्रशाङ्करभाष्यम् १ - २ - १०)
परमात्मा - अत्र गीताश्लोकः स्मर्तव्यः। तस्य पुरुषोत्तमस्य नाम एव परमात्मा इति कृतम्।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।।15.17।।
परतत्त्वम् - लोकात् परं तत्त्वम् एव परतत्त्वम्।
क्षेत्रज्ञः - अत्र अपि गीतातः एकः श्लोकः स्मर्यते। सर्वक्षेत्रेषु यः विद्यते तस्य नाम एव क्षेत्रज्ञः इति अस्मिन् श्लोके भगवान् कृष्णः प्रतिपादयति।
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम।।13.3।।
एतानि सर्वाणि अपि पदानि आत्मनः पर्यायपदानि इति स्वामी वदति। किमर्थम् एकस्य पदस्य कृते तावन्ति नाना पदानि। प्रसङ्गानुसारं यथाअवसरम् एतानि पदानि परिकल्पितानि वर्तन्ते। किन्तु एतैः सर्वैः अपि पदैः सङ्केतितः पदार्थः तु एकः एव आत्मा।

Comments