top of page

आरोग्यं मूलम् उत्तमम्

  • Dec 9, 2022
  • 1 min read

"आरोग्यं मूलम् उत्तमम्।" इति वाक्यं स्वामी स्वोपन्यासे उक्तवान्। यदा सायिसेवाकर्तारः ग्रामान् गच्छन्ति तत्र कीदृश्यः सेवाः कर्तव्याः इति कथनावसरे स्वामी एतां सूक्तिम् कथितवान्।

आरोग्यम् उत्तमम् मूलं भवति। अतः आरोग्यसेवा करणीया इति स्वामिना प्रतिपादितम्।


स्वामिनः एतानि वचनानि अत्र श्रोतुं शक्यन्ते।



इदं वाक्यं चरकसंहितातः उद्धृतम् अस्ति। मूलश्लोकः एवं वर्तते।


चरकसंहितायां - सूत्रस्थानम् - १. दीर्घञ्जीवितीयोऽध्यायः इत्यत्र।


धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्॥ १५॥
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च।

धर्मः अर्थः कामः मोक्षः चेति पुरुषार्थाः। एतेषाम् उत्तमं मूलं भवति आरोग्यम्। आरोग्यं विना किमपि पुरुषार्थं साधयितुं मानवाः न शक्नुवन्ति। रोगाः भवन्ति श्रेयसः जीवितस्य अपहर्तारः। रोगाः एव जीवने बाधाः भवन्ति। अतः आरोग्यं नाम रोगनिवारणम्।



Comments


bottom of page