top of page

देहो देवालयः प्रोक्तो जीवो देवः सनातनः

देहः एव देवालयः अस्ति। तत्र देवालये जीवः एव देवः अस्ति। एतदेव परं ज्ञानम् अस्ति।

अयं मन्त्रः मैत्रेय्युपनिषदि द्वितीये अध्याये वर्तते।


अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच भो भगवन्परमतत्त्वरहस्यमनुब्रूहीति। स होवाच महादेवः । देहो देवालयः प्रोक्तः स जीवः केवल:शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहं-भावेन पूजयेत् ॥

अस्य मन्त्रस्य सरलः अर्थः

अथ भगवान् मैत्रेयः कैलासं गतवान्। तत्र महादेवं प्रार्थितवान् "हे भगवन्, परमतत्त्वरहस्यं माम् वद।" तस्य प्रार्थनां श्रुत्वा महादेवः उक्तवान् "देहो देवालयः प्रोक्तः स जीवः केवलःशिवः। त्यजेत् अज्ञाननिर्माल्यं सः अहं भावेन पूजयेत्।"


देवालयः काष्ठनिर्मितमन्दिरं वा शिलानिर्मितालयः नास्ति। अस्माकं देहः एव देवालयः। अस्मिन् देवालये कः प्रतिष्ठितः ? परमात्मा एव देवः अस्ति अस्मिन् देहात्मके देवालये। अतः अज्ञानस्य निर्माल्यं त्यक्त्वा सः (देवः) एव अहम् अस्मि इति भावेन पूजा करणीया।


11 views0 comments

Comentarios


bottom of page